महावीराष्टक - स्तोत्रम्

दर्शन स्तुति

देव स्तुति

गुरुदेव स्तुति

 
 
 
 
 

महावीराष्टक - स्तोत्रम्

 

यदीये चैतन्ये  मुकुर इव भावाश्चिदचित:,
संमभान्तिध्रौव्य-व्यय-जनि-लसन्तोऽन्त-रहिता: ।
जगत्-साक्षी-मार्ग-प्रकटन-परो भानुरिव यो,
महावीरस्वामी नयनपथ - गामी भवतु मे ॥
अताम्रं यच्चक्षु : कमलयुगलं स्पंदरहितं,
जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि ।
स्फुअं मूतिर्यस्य प्रशमितमयी वातिविमला ॥ महावीर.
नमत्राकेंद्राली मुकुटमणिभालजटिलं,
लसत्पादांभेजद्वयमिह यदीयं तनुभृंता ।
भवज्ज्वालाशांत्यै प्रभवति जलं वा स्मृतमणि !!महावरी!!
यदर्चाभावेन प्रमुदितमना दर्दुर इह,
क्षणादासीत्स्वर्गी गुणगधसमृध्द: सुखनिधि:
लभन्ते सद्भक्ता: शिवसुखसमाजं किमु तदा ॥ महाविर॥
कनत्स्वर्णाभासोऽप्यपगत-तनुज्र्ञान-निवहो,
विचित्रात्माप्येको नृपति-वर-सिध्दार्थ-तनय:
अजन्मापि श्रीमान्विगत-भव-रागोद्भुत-गति:॥महाविर॥
यदीया वाग्गंगा विविध-नय-कल्लोल-विमला,
वृहज्ज्ञानांभोभिर्जगति जनतां या स्नपयति ।
इदानीमप्येषा बुधजन-मरालै:परिचिता ॥महावीर॥
अनिर्वारोद्रेकस्त्रिभुवनजयी काम-सुभट:,
कुमारावस्थायामपि निल- बलाद्येन विजित: ।
स्फुरत्रित्यानंद -प्रशम-पद-राज्याय स जिन:
महामोहातंक-प्रशमन-पराकस्मिक-भिषक्,
निरापेक्षो बंधुर्विदित-महिमा मंगलकर:।
शरण्य:साधूनां भव-भयभृतामुत्तमगंणो
महावीराष्टकं स्तोत्रं भक्त्या भगें दुना कृतं
य:पठेच्छृ णुयाच्चापि स याति परमां गतिम् ।